DestinyNet 命理網



專業諮詢首選:命理網論命平台



議題選項
議題評分
#2233592 - 2024-03-28 09:30:23 梵文普賢行願讚ॐअवंरंहंखं ॐअविरहुंखं ॐअरपचन भद्रचरिप्रणिधा
jwjwo 離線
六六大順
註冊: 1999-12-22
文章數: 6190
來自: 開開心心的天堂國度
ॐअवंरंहंखं ॐअविरहुंखं ॐअरपचन
अथ खलु समन्तभद्रो बोधिसत्त्वो महासत्त्वः एवमेव लोकधातुपरंपरानभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमान् कल्पान् कल्पप्रसरानभिद्योतयमानो भूयस्या मात्रया गाथाभिगीतेन प्रणिधानमकार्षीत्

यावत केचि दशद्दिशि लोके
सर्वत्रियध्वगता नरसिंहाः
तानहु वन्दमि सर्वि अशेषान्
कायतु वाच मनेन प्रसन्नः

क्षेत्ररजोपमकायप्रमाणैः
सर्वजिनान करोमि प्रणामम्
सर्वजिनाभिमुखेन मनेन
भद्रचरीप्रणिधानबलेन

एकरजाग्रि रजोपमबुद्धा
बुद्धसुतान निषण्णकु मध्ये
एवमशेषत धर्मतधातुं
सर्वाधिमुच्यमि पूर्ण जिनेभिः

तेषु च अक्षयवर्णसमुद्रान्
सर्वस्वराङ्गसमुद्ररुतेभिः
सर्वजिनान गुणान् भणमानस्तान् सुगतान् स्तवमी अहु सर्वान्

पुष्पवरेभि च माल्यवरेभिर्वाद्यविलेपनछत्रवरेभिः
दीपवरेभि च धूपवरेभिः
पूजन तेष जिनान करोमि

वस्त्रवरेभि च गन्धवरेभिश्चूर्णपुटेभि च मेरुसमेभिः
सर्वविशिष्टवियूहवरेभिः
पूजन तेष जिनान करोमि

या च अनुत्तर पूज उदारा
तानधिमुच्यमि सर्वजिनानाम्
भद्रचरीअधिमुक्तिबलेन
वन्दमि पूजयमी जिन सर्वान्

यच्च कृतं मयि पापु भवेय्या
रागतु द्वेषतु मोहवशेन
कायतु वाच मनेन तथैव
तं प्रतिदेशयमी अहु सर्वम्

यच्च दशद्दिशि पुण्य जगस्य
शैक्ष अशैक्षप्रत्येकजिनानाम्
बुद्धसुतानथ सर्वजिनानां
तं अनुमोदयमी अहु सर्वम्

ये च दशद्दिशि लोकप्रदीपा
बोधिविबुद्ध असङ्गतप्राप्ताः
तानहु सर्वि अध्येषमि नाथां
चक्रु अनुत्तरु वर्तनतायै

येऽपि च निर्वृति दर्शितुकामास्तानभियाचमि प्राञ्जलिभूतः
क्षेत्ररजोपमकल्प स्थिहन्तु
सर्वजगस्य हिताय सुखाय

वन्दनपूजनदेशनताय
मोदनध्येषणयाचनताय
यच्च शुभं मयि संचितु किंचिद्बोधयि नामयमी अहु सर्वम्

पूजित भोन्तु अतीतक बुद्धा
ये च घ्रियन्ति दशद्दिशि लोके
ये च अनागत ते लघु भोन्तु
पूर्णमनोरथ बोधिविबुद्धाः

यावत् केचि दशद्दिशि क्षेत्रास्ते परिशुद्ध भवन्तु उदाराः
बोधिद्रुमेन्द्रगतेभि जिनेभिर्बुद्धसुतेभि च भोन्तु प्रपूर्णाः

यावत् केचि दशद्दिशि सत्त्वास्ते सुखिताः सद भोन्तु अरोगाः
सर्वजगस्य च धर्मिकु अर्थो
भोन्तु प्रदक्षिणु ऋध्यतु आशा

बोधिचरिं च अहं चरमाणो
भवि जातिस्मरु सर्वगतीषु
सर्वसु जन्मसु च्युत्युपपत्ती
प्रव्रजितो अहु नित्यु भवेय्या

सर्वजिनाननुशिक्षयमाणो
भद्रचरिं परिपूरयमाणः
शीलचरिं विमलां परिशुद्धां
नित्यमखण्डमच्छिद्र चरेयम्

देवरुतेभि च नागरुतेभिर्यक्षकुम्भाण्डमनुष्यरुतेभिः
यानि च सर्वरुतानि जगस्य
सर्वरुतेष्वहु देशयि धर्मम्

ये खलु पारमितास्वभियुक्तो
बोधियि चित्तु म जातु विमुह्येत्
येऽपि च पापक आवरणीयास्तेषु परिक्षयु भोतु अशेषम्

कर्मतु क्लेशतु मारपथातो
लोकगतीषु विमुक्तु चरेयम्
पद्म यथा सलिलेन अलिप्तः
सूर्य शशी गगनेव असक्तः

सर्वि अपायदुखां प्रशमन्तो
सर्वजगत् सुखि स्थापयमानः
सर्वजगस्य हिताय चरेयं
यावत क्षेत्रपथा दिशतासु

सत्त्वचरिं अनुवर्तयमानो
बोधिचरिं परिपुरयमाणः
भद्रचरिं च प्रभावयमानः
सर्वि अनागतकल्प चरेयम्

ये च सभागत मम चर्याये
तेभि समागमु नित्यु भवेय्या
कायतु वाचतु चेतनतो वा
एकचरि प्रणिधान चरेयम्

येऽपि च मित्रा मम हितकामा
भद्रचरीय निदर्शयितारः
तेभि समागमु नित्यु भवेय्या
तांश्च अहं न विरागयि जातु

संमुख नित्यमहं जिन पश्ये
बुद्धसुतेभि परीवृतु नाथान्
तेषु च पूज करेय उदारां
सर्वि अनागतकल्पमखिन्नः

धारयमाणु जिनान सद्धर्मं
बोधिचरिं परिदीपयमानः
भद्रचरिं च विशोधयमानः
सर्वि अनागतकल्प चरेयम्

सर्वभवेषु च संसरमाणः
पुण्यतु ज्ञानतु अक्षयप्राप्तः
प्रज्ञौपायसमाधिविमोक्षैः
सर्वगुणैर्भवि अक्षयकोशः

एकरजाग्रि रजोपमक्षेत्रा
तत्र च क्षेत्रि अचिन्तिय बुद्धान्
बुद्धसुतान निषण्णकु मध्ये
पश्यिय बोधिचरिं चरमाणः

एवमशेषत सर्वदिशासु
बालपथेषु त्रियध्वप्रमाणान्
बुद्धसमुद्र थ क्षेत्रसमुद्रानोतरि चारिककल्पसमुद्रान्

एकस्वराङ्गसमुद्ररुतेभिः
सर्वजिनान स्वराङ्गविशुद्धिम्
सर्वजिनान यथाशयघोषान्
बुद्धसरस्वतिमोतरि नित्यम्

तेषु च अक्षयघोषरुतेषु
सर्वत्रियध्वगतान जिनानाम्
चक्रनयं परिवर्तयमानो
बुद्धिबलेन अहं प्रविशेयम्

एकक्षणेन अनागत सर्वान्
कल्पप्रवेश अहं प्रविशेयम्
येऽपि च कल्प त्रियध्वप्रमाणास्तान् क्षणकोटिप्रविष्ट चरेयम्

ये च त्रियध्वगता नरसिंहास्तानहु पश्यिय एकक्षणेन
तेषु च गोचरिमोतरि नित्यं
मायगतेन विमोक्षबलेन

ये च त्रियध्वसुक्षेत्रवियूहास्तानभिनिर्हरि एकरजाग्रे
एवमशेषत सर्वदिशासु
ओतरि क्षेत्रवियूह जिनानाम्

ये च आनागत लोकप्रदीपास्तेषु विबुध्यन चक्रप्रवृत्तिम्
निर्वृतिदर्शननिष्ठ प्रशान्तिं
सर्वि अहं उपसंक्रमि नाथान्

ऋद्धिबलेन समन्तजवेन
ज्ञानबलेन समन्तमुखेन
चर्यबलेन समन्तगुणेन
मैत्रबलेन समन्तगतेन

पुण्यबलेन समन्तशुभेन
ज्ञानबलेन असङ्गगतेन
प्रज्ञौपायसमाधिबलेन
बोधिबलं समुदानयमानः

कर्मबलं परिशोधयमानः
क्लेशबलं परिमर्दयमानः
मारबलं अबलंकरमाणः
पूरयि भद्रचरीबल सर्वान्

क्षेत्रसमुद्र विशोधयमानः
सत्त्वसमुद्र विमोचयमानः
धर्मसमुद्र विपश्ययमानो
ज्ञानसमुद्र विगाहयमानः

चर्यसमुद्र विशोधयमानः
प्रणिधिसमुद्र प्रपूरयमाणः
बुद्धसमुद्र प्रपूजयमानः
कल्पसमुद्र चरेयमखिन्नः

ये च त्रियध्वगतान जिनानां
बोधिचरिप्रणिधानविशेषाः
तानहु पूरयि सर्वि अशेषान्
भद्रचरीय विबुध्यिय बोधिम्

ज्येष्ठकु यः सुतु सर्वजिनानां
यस्य च नाम समन्ततभद्रः
तस्य विदुस्य सभागचरीये
नामयमी कुशलं इमु सर्वम्

कायतु वाच मनस्य विशुद्धिश्चर्यविशुद्ध्यथ क्षेत्रविशुद्धिः
यादृश नामन भद्र विदुस्य
तादृश भोतु समं मम तेन

भद्रचरीय समन्तशुभाये
मञ्जुशिरिप्रणिधान चरेयम्
सर्वि अनागत कल्पमखिन्नः
पूरयि तां क्रिय सर्वि अशेषाम्

नो च प्रमाणु भवेय्य चरीये
नो च प्रमाणु भवेय्य गुणानाम्
अप्रमाण चरियाय स्थिहित्वा
जानमि सर्वि विकुर्वितु तेषाम्

यावत निष्ठ नभस्य भवेय्या
सत्त्व अशेषत निष्ठ तथैव
कर्मतु क्लेशतु यावत निष्ठा
तावतनिष्ठ मम प्रणिधानम्

ये च दशद्दिशि क्षेत्र अनन्ता
रथअलंकृतु दद्यु जिनानाम्
दिव्य च मानुष सौख्यविशिष्टां
क्षेत्ररजोपम कल्प ददेयम्

यश्च इमं परिणामनराजं
श्रुत्व सकृज्जनयेदधिमुक्तिम्
बोधिवरामनुप्रार्थयमानो
अग्रु विशिष्ट भवेदिमु पुण्यम्

वर्जित तेन भवन्ति अपाया
वर्जित तेन भवन्ति कुमित्राः
क्षिप्रु स पश्यति तं अमिताभं
यस्यिमु भद्रचरिप्रणिधानम्

लाभ सुलब्ध सुजीवितु तेषां
स्वागत ते इमु मानुष जन्म
यादृश सो हि समन्ततभद्रस्तेऽपि तथा नचिरेण भवन्ति

पापक पञ्च अनन्तरियाणि
येन अज्ञानवशेन कृतानि
सो इमु भद्रचरिं भणमानः
क्षिप्रु परिक्षयु नेति अशेषम्

ज्ञानतु रूपतु लक्षणतश्च
वर्णतु गोत्रतु भोतिरुपेतः
तीर्थिकमारगणेभिरघृष्यः
पूजितु भोति स सर्वत्रिलोके

क्षिप्रु स गच्छति बोधिद्रुमेन्द्रं
गत्व निषीदति सत्त्वहिताय
बुध्यति बोधि प्रवर्तयि चक्रं
धर्षति मारु ससैन्यकु सर्वम्

यो इमु भद्रचरिप्रणिधानं
धारयि वाचयि देशयितो वा
बुद्ध विजानति योऽत्र विपाको
बोधि विशिष्ट म काङ्क्ष जनेथ

मञ्जुशिरी यथ जानति शूरः
सो च समन्ततभद्र तथैव
तेषु अहं अनुशिक्षयमाणो
नामयमी कुशलं इमु सर्वम्

सर्वत्रियध्वगतेभि जिनेभिर्या परिणामन वर्णित अग्रा
ताय अहं कुशलं इमु सर्वं
नामयमी वरभद्रचरीये

कालक्रियां च अहं करमाणो
आवरणान् विनिवर्तिय सर्वान्
संमुख पश्यिय तं अमिताभं
तं च सुखावतिक्षेत्र व्रजेयम्

तत्र गतस्य इमि प्रणिधाना
आमुखि सर्वि भवेय्यु समग्रा
तांश्च अहं परिपूर्य अशेषान्
सत्त्वहितं करि यावत लोके

तहि जिनमण्डलि शोभनि रम्ये
पद्मवरे रुचिरे उपपन्नः
व्याकरणं अहु तत्र लभेय्या
संमुखतो अभिताभजिनस्य

व्याकरणं प्रतिलभ्य त तस्मिन्
निर्मितकोटिशतेभिरनेकैः
सत्त्वहितानि बहून्यहु कुर्यां
दिक्षु दशस्वपि बुद्धिबलेन

भद्रचरिप्रणिधान पठित्वा
यत्कुशलं मयि संचितु किंचित्
एकक्षणेन समृध्यतु सर्वं
तेन जगस्य शुभं प्रणिधानम्

भद्रचरिं परिणाम्य यदाप्तं
पुण्यमनन्तमतीव विशिष्टम्
तेन जगद्व्यसनौघनिमग्नं
यात्वमिताभपुरिं वरमेव
_________________________
*************************************************************************
om a vam ram ham kham om a vi ra hum kham om a ra pa ca na 紫微神咒
星平透壬穿禽網站
我的FB網頁

om namo manjusriye namah susriye nama uttama sriye svaha
namah saddharma pundarika sutra svaha namah Suvarṇaprabhāsottamasūtrendrarājaḥ svaha namo Mahamayuri Vidyarajni Sutra namo Karunikarāja Rāṣṭrapāla Prajñāpāramitā sūtra namo Caturmahārājakayikas om a hum om a vam ram ham kham a vi ra hūm kham a ra pa ca na om alolik svaha om gagana sambhava vajra hoh om trum svaha Taiwan Love & Peace
禮敬諸佛 稱讚如來
廣修供養 懺悔業障
隨喜功德 請轉法輪
請佛住世 常隨佛學
恒順眾生 普皆回向
*************************************************************************

每自作是意 以何令眾生
得入無上慧 速成就佛身
--妙法蓮華經

↑回到頂端↑



全部議題
議題 貼文者 : 張貼日期
梵文普賢行願讚ॐअवंरंहंखं ॐअविरहुंखं ॐअरपचन भद्रचरिप्रणिधा jwjwo 2024-03-28 09:30:23

板主:  deepblue 
Google 搜尋
七嘴八舌
Facebook 塗鴉牆
最多貼文者 (30 天內)
愛因斯坦 278
元利 76
cheng1969 76
CHC 70
kit13 56
rblin 54
Quantacy 46
jcj 45
紅兒 44
bluenwater 39
yungshow 37
hongrong51 33
少室山野人 29
魯夫 29
禾平 28
最新議題
大谷翔平
by 歐達善
56 分 23 秒 之前
那伽常在定,無有不定時
by rblin
今天 at 03:04
感情...想問對方和自己適不適合?
by dudufish
昨天 at 19:31
斗數:溺水死亡案例理氣
by 福哥命理天地
昨天 at 17:49
問八字 喜忌用神
by 我的快樂時代
昨天 at 15:18
《三命通会》六壬日丙午时断 (壬寅日丙午时)疑問
by 我的快樂時代
昨天 at 13:35
站長大大,八字排盤頁面故障了,斗數也是
by 乙木無根
昨天 at 13:34
又是鳳凰花開的季節
by rblin
昨天 at 03:00
再論女同事跟我有沒有可能在一起(婚姻)?
by 烏列
2024-05-25 23:36:22
算盤要會打
by rblin
2024-05-25 03:01:08
誰在線上
6 線上使用者 (lotus, vangelis, yungshow, Zorro, 2 隱形), 109 Guests and 97 Spiders online.
Key: Admin, Global Mod, Mod
最新使用者
我的快樂時代, hihi0933729, derick, WolfTsai197802XXXX, a8565
81755 註冊使用者
討論區統計
81755 使用者
54 討論區
220964 議題
2142580 文章

最高線上使用者: 1162 @ 2018-05-29 02:51:45

本站是個命理討論的園地,如果您要問命,請務必詳閱各板板規,遵守發問規則,不要只留個生日或是命盤, 其他什麼都沒提。貼命盤的方法請特別注意算完命盤後的文字說明,不要貼個沒人看懂歪七扭八的命盤, 貼錯命盤及未遵守板規者,文章很有可能被不預警刪除 另外,如果您提了問題,而有人回覆的話,不論對與錯,請務必多上來回應論命者, 我們不歡迎那種提了問題就等人回答,也不回應的人。我們需要的是,「良好的互動」及「長期的追蹤」。
本站大多數的討論區都得要註冊才能發言,您若是要張貼討論,請務必註冊為使用者, 如果您忘了您的密碼,請在登入」的畫面, 輸入您的帳號,再按一下我忘記我的密碼了」, 此時系統會寄一封信到您當時註冊的 Email 信箱裡面, 裡面則附有一個臨時密碼,請您拿到密碼後用此臨時密碼登入。登入之後可以在 編輯個人檔案」裡面修改成您習慣的密碼。
本站推薦瀏覽器: Firefox Chrome Safari
logo